मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २९, ऋक् ५

संहिता

प्र व॒ एको॑ मिमय॒ भूर्यागो॒ यन्मा॑ पि॒तेव॑ कित॒वं श॑शा॒स ।
आ॒रे पाशा॑ आ॒रे अ॒घानि॑ देवा॒ मा माधि॑ पु॒त्रे विमि॑व ग्रभीष्ट ॥

पदपाठः

प्र । वः॒ । एकः॑ । मि॒म॒य॒ । भूरि॑ । आगः॑ । यत् । मा॒ । पि॒ताऽइ॑व । कि॒त॒वम् । श॒शा॒स ।
आ॒रे । पाशाः॑ । आ॒रे । अ॒घानि॑ । दे॒वाः॒ । मा । मा॒ । अधि॑ । पु॒त्रे । विम्ऽइ॑व । ग्र॒भी॒ष्ट॒ ॥

सायणभाष्यम्

हेदेवाः वोयुष्माकंमध्येअहमेकःसन् भूरिबहुलंआगः पापंप्रमिमयअहंप्रकर्षेणाहिंसिषं कथमस्माकं मध्येत्वमेव इतिचेदुच्यते—यद्यस्मात् मामांपितेवकित् वं यथाअपथप्रवृत्तंपुत्रंपितानुशास्तितथाश- शास अनुशिष्टंचकृढ्वे शासुअनुशिष्टावित्यस्माल्लिटिमध्यमस्यरूपम् अपिच हेदेवाः युष्मदीयाः पाशाः आरेअस्मत्तोदूरदेशेसन्तु अद्यानिपापानिचआरेसन्तुमामाअधिपुत्रे अधिःसप्तम्यर्थानुवादी पुत्रे- पश्यतिसतिपितरंमंतं विमिवपक्षिणमिवव्याधः माग्नभीष्ट मागृह्णीध्वम् माङिलुङि हृग्रहोर्भइतिभ- त्वम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११