मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २९, ऋक् ७

संहिता

माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।
मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥

पदपाठः

मा । अ॒हम् । म॒घोनः॑ । व॒रु॒ण॒ । प्रि॒यस्य॑ । भू॒रि॒ऽदाव्नः॑ । आ । वि॒द॒म् । शून॑म् । आ॒पेः ।
मा । रा॒यः । रा॒ज॒न् । सु॒ऽयमा॑त् । अव॑ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

व्याख्यातेयम् ॥ ७ ॥

ऋतंदेवायेत्येकादशर्चमष्टमंसूक्तम् गार्त्समदं अन्त्यजगती शिष्टास्त्रिष्टुभः प्रहिक्रतुमित्येषाइन्द्रा- सोमदेवताका सरस्वतित्वम् स्मानित्यर्धर्चःसारस्वतः योनःसनुत्यइत्येषाबार्हस्पत्या अन्त्यामारुती शिष्टाऎन्द्र्यः तथाचानुक्रान्तम्—ऋतमेकादशजगत्यन्तंषष्ठ्यैन्द्रासोमीसरस्वति त्वमितिसारस्वतो- र्धर्चोयोनोवार्हस्पत्यातंवोमारुतीति गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११