मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३१, ऋक् ४

संहिता

उ॒त स्य दे॒वो भुव॑नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभि॑ः स॒जोषा॑ जूजुव॒द्रथ॑म् ।
इळा॒ भगो॑ बृहद्दि॒वोत रोद॑सी पू॒षा पुरं॑धिर॒श्विना॒वधा॒ पती॑ ॥

पदपाठः

उ॒त । स्यः । दे॒वः । भुव॑नस्य । स॒क्षणिः॑ । त्वष्टा॑ । ग्नाभिः॑ । स॒ऽजोषाः॑ । जू॒जु॒व॒त् । रथ॑म् ।
इळा॑ । भगः॑ । बृ॒ह॒त्ऽदि॒वा । उ॒त । रोद॑सी॒ इति॑ । पू॒षा । पुर॑म्ऽधिः । अ॒श्विनौ॑ । अध॑ । पती॒ इति॑ ॥

सायणभाष्यम्

उतअपिच स्यःसदेवोदानादिगुणयुक्तः भुवनस्यभूतजातस्यसक्षणिः सचनीयः सेव्यः ग्नाभिर्दे- वपत्नीभिः छंदांसिवैग्नाइतितैत्तिरीयकम् । गायत्र्यादीनिच्छन्दांसिचदेवपत्न्यइत्युक्तम् सजोषाः समानप्रीतिः एवंगुणविशिष्टस्त्वष्टाअस्मदीयंरथंजूजुवत् प्रेरयतु जुइतिसौत्रोधातुर्गत्यर्थः अस्मा- ण्ण्यन्ताल्लुङिरूपम् तथा इळातिसृणांदेवीनामाद्याइडाख्यादेवीचरथंप्रेरयतु बृहद्दिवा बृहन्म- हन्महृद्दीव्यतिद्योततइतिब्रुहद्दिवः इगुपधलक्षणःकः सुपांसुलुगितिविभक्तेरोकारः तादृशोभगश्च- प्रेरयतु उतअपिचरोदसीद्यावापृथिव्यौपुरंधिर्बहुधीः पूषापोषकोदेवश्चअधशब्दश्चार्थे पती सूर्या- याभर्तारौअश्विनौचएतेसर्वेअस्मदीयंरथंप्रेरथंप्रेरयन्त्वित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४