मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३२, ऋक् ३

संहिता

अहे॑ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा॑नां धे॒नुं पि॒प्युषी॑मस॒श्चत॑म् ।
पद्या॑भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा॑ ॥

पदपाठः

अहे॑ळता । मन॑सा । श्रु॒ष्टिम् । आ । व॒ह॒ । दुहा॑नाम् । धे॒नुम् । पि॒प्युषी॑म् । अ॒स॒श्चत॑म् ।
पद्या॑भिः । आ॒शुम् । वच॑सा । च॒ । वा॒जिन॑म् । त्वाम् । हि॒नो॒मि॒ । पु॒रु॒ऽहू॒त॒ । वि॒श्वहा॑ ॥

सायणभाष्यम्

हेइन्द्रत्वष्टर्वा अहेळताअक्रुध्यतामनसाश्रुष्टिंसुखकरींदुहानांदोग्ध्रींपिप्युषींप्रवृद्धांपीनां प्यायी- वृद्धौ लिटःक्वसुः लिड्यङोश्चेतिपीभावः उगितश्चेतिङीप् सम्प्रसारणमितिसंप्रसारणम् शासिव- सिघसीनांचेतिषत्वम् असश्चतं असक्तावयवांएवंभूतांधेनुंगांआवहआभिमुख्येनप्रापय अपिचहेपु- रुहूत बहुभिराहूतेन्द्रत्वष्टर्वा पद्याभिः पादगतिभिः आशुंव्यापनशीलं वचसावाचाच वाजिनं- वेगवंतंत्वांविश्वहासर्वेष्वहस्सुहिनोमिस्तुतिभिः प्रेरयामि हिगतौवृद्धौच ॥ ३ ॥ पत्नीसंयाजेषुगृहपतेः प्राक् राकासिनीवाल्यौयष्टव्ये तत्रराकायागस्यराकामहमित्यादिकेया- ज्यानुवाक्ये सूत्रितंच—राकामहंसिनीवालिकुहूमहमितिद्वेद्वेयाज्यानुवाक्येइति तथाआग्निमारुते- प्येतेधाय्ये सूत्रितञ्च—राकामहमितिद्वेइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५