मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३३, ऋक् १०

संहिता

अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम् ।
अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥

पदपाठः

अर्ह॑न् । बि॒भ॒र्षि॒ । साय॑कानि । धन्व॑ । अर्ह॑न् । नि॒ष्कम् । य॒ज॒तम् । वि॒श्वऽरू॑पम् ।
अर्ह॑न् । इ॒दम् । द॒य॒से॒ । विश्व॑म् । अभ्व॑म् । न । वै । ओजी॑यः । रु॒द्र॒ । त्वत् । अ॒स्ति॒ ॥

सायणभाष्यम्

हेरुद्र त्वं अर्हन् अर्होयोग्यएवसन् सायकानिशरान् धन्वधनुश्चबिभर्षिधारयसि तथाअर्हन्नेवयज- तंयजनीयंपूजनीयंविशरूपं बहुविधरूपयुक्तंनिष्कंहारंबिभर्षि तथाअर्हन्नेवइदंविश्वंसर्वंअभ्वं महन्ना- मैतत् अतिविस्तृतंजगत् दयसेरक्षसि देङ् रक्षणे हेरुद्र त्वत् त्वत् त्वत्तोन्यत् किंचित् ओजीयः ओज- स्वितरंबलवत्तरंनवाअस्ति नखलुविद्यते अतस्त्वमेवोक्तव्यापारेषुयोज्यइत्यर्थः ओजस् शब्दान्मत्व- र्थीयोविनिः अतआतिशायनिकइष्ठन् विन्मतोर्लुक् टेरितिटिलोपः ॥ १० ॥ प्रयाणेम्रुगस्यामनोज्ञावाचःश्रुत्वास्तुहिश्रुतमित्येतांजपेत् सूत्रितञ्च—स्तुहिश्रुतंगर्तसदंयुवानमि- तिमृगस्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७