मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३३, ऋक् १५

संहिता

ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा॑ देव॒ न हृ॑णी॒षे न हंसि॑ ।
ह॒व॒न॒श्रुन्नो॑ रुद्रे॒ह बो॑धि बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥

पदपाठः

ए॒व । ब॒भ्रो॒ इति॑ । वृ॒ष॒भ॒ । चे॒कि॒ता॒न॒ । यथा॑ । दे॒व॒ । न । हृ॒णी॒षे । न । हंसि॑ ।
ह॒व॒न॒ऽश्रुत् । नः॒ । रु॒द्र॒ । इ॒ह । बो॒धि॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

हेबभ्रो जगतोभर्तः बभ्रुवर्णवा वृषभ कामानांवर्षितः चेकितान सर्वंजानन् हेदेवद्योतमान रुद्र यथायेनप्रकारेणनहृणीषेनक्रुध्यसि नचहंसि हृणीङ्लज्जायां अयंक्रुध्यतिकर्माच एव एवंहवनश्रुत् अस्मदीयमाह्वानंश्रृण्वन् नोस्मान् हेरुद्र इहास्मिन्देशे बोधिबुद्भ्यस्व विदथेयज्ञे गृहेवासुवीराः शोभ- नपुत्राः सन्तः ब्रुहत्प्रौढं त्वदीयंस्तोत्रंवदेमोच्चारयाम ॥ १५ ॥

धारावराइतिपञ्चदशर्चंद्वितीयंसूक्तं गार्त्समदंमारुतं अन्त्यात्रिष्टुप् शिष्टाजगत्यः तथाचानुक्रान्त- म्—धारावरामारुतंत्रिष्टुबन्तमिति पृष्ठ्याभिप्लवषडहयोस्तृतीयेहन्याग्निमारुतशस्रस्यइदंमारुतनि- विद्धानं सूत्रितंच—वैश्वानरायधिषणांधारावरामरुतस्त्वमग्नेप्रथमोअङ्गिराइत्याग्निमारुतमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८