मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् १७

संहिता

त्वे विश्वा॑ सरस्वति श्रि॒तायूं॑षि दे॒व्याम् ।
शु॒नहो॑त्रेषु मत्स्व प्र॒जां दे॑वि दिदिड्ढि नः ॥

पदपाठः

त्वे इति॑ । विश्वा॑ । स॒र॒स्व॒ति॒ । श्रि॒ता । आयूं॑षि । दे॒व्याम् ।
शु॒नऽहो॑त्रेषु । म॒त्स्व॒ । प्र॒ऽजाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥

सायणभाष्यम्

हेसरस्वति देव्यांद्योतमानायांत्वेत्वयि विश्वाविश्वानि सर्वाण्यायूंषिअन्नानिआयुः सूमृतेत्यन्न नाससुपाठात् श्रिताआश्रितानि सात्वं शुन होत्रेषु गृत्समदेष्वस्मासुविषयेषुमत्स्वसोमपानेनतृप्य किंच हेदेविसरस्वति नः अस्मभ्यंप्रजां दिदिड्गिपुत्रान् देहि ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०