मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४२, ऋक् १

संहिता

कनि॑क्रदज्ज॒नुषं॑ प्रब्रुवा॒ण इय॑र्ति॒ वाच॑मरि॒तेव॒ नाव॑म् ।
सु॒म॒ङ्गल॑श्च शकुने॒ भवा॑सि॒ मा त्वा॒ का चि॑दभि॒भा विश्व्या॑ विदत् ॥

पदपाठः

कनि॑क्रदत् । ज॒नुष॑म् । प्र॒ऽब्रु॒वा॒णः । इय॑र्ति । वाच॑म् । अ॒रि॒ताऽइ॑व । नाव॑म् ।
सु॒ऽम॒ङ्गलः॑ । च॒ । श॒कु॒ने॒ । भवा॑सि । मा । त्वा॒ । का । चि॒त् । अ॒भि॒ऽभा । विश्व्या॑ । वि॒द॒त् ॥

सायणभाष्यम्

कनिक्रदत् पुनःपुनःशब्दायमानः जनुषंनिष्यमाणमर्थं प्रब्रुवाणः सूचयन् कपिञ्चलः अरितेव कर्णधारइवनावंवाचमियर्तिप्रेरयति अथप्रत्यक्षकृतः हेशकुनेकपिञ्चल त्वंसुमङ्गलः प्रकृष्टकल्याण श्चभवासिभव किञ्च काचिदभिभा कोप्यभिभवः त्वात्वां विश्व्याविश्वतः सर्वासुदिक्षुमाविदत् माप्रापत् शकुनिः शक्नोत्युन्नेतुमात्मनं न्यक्रन्दीज्जन्मप्रब्रुवाणोयथास्यशब्दस्तथानामेरयतिवाचमीर यितेवनावंसुमङ्गलश्चशकुनेभवकल्याणमङ्गलोमङ्लंगिरतेर्गृणात्यर्थेगिरत्यर्थानितिवेतियास्कः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११