मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् १

संहिता

सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं॑ चकर्थ वि॒दथे॒ यज॑ध्यै ।
दे॒वाँ अच्छा॒ दीद्य॑द्यु॒ञ्जे अद्रिं॑ शमा॒ये अ॑ग्ने त॒न्वं॑ जुषस्व ॥

पदपाठः

सोम॑स्य । मा॒ । त॒वस॑म् । वक्षि॑ । अ॒ग्ने॒ । वह्नि॑म् । च॒क॒र्थ॒ । वि॒दथे॑ । यज॑ध्यै ।
दे॒वान् । अच्छ॑ । दीद्य॑त् । यु॒ञ्जे । अद्रि॑म् । श॒म्ऽआ॒ये । अ॒ग्ने॒ । त॒न्व॑म् । जु॒ष॒स्व॒ ॥

सायणभाष्यम्

हेअग्ने त्वंविदथे यज्ञे यजध्यै यष्टुं सोमस्यवह्निंवोढारं यं मा मां चकर्थकृतवानसि तं मा तवसंतपस्विनं बलिनं वक्षि कामयस्व किञ्च हेअग्ने देवानच्छअभिलक्ष्यदीद्यत् दीप्यमानोहं अद्रिं ग्रावाणं युञ्चे अभिषवणाययुनज्मिशमाये शाम्यामिच तथामन्त्रान्तरं—ऋतेनदेवःसविताशमायते ति । यद्वा शमायेस्तौमि शशमानः रञ्चयतीति स्तुतिकर्मसुपाठात् तथाचमन्त्रान्तरं—सोअग्नईजे शशमेचमर्तइति । किञ्च हेअग्ने तन्वंशरीरं जुषस्वरक्षायैसेवस्व यद्वा कर्माणितन्वन्तं मां सेवस्वे त्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३