मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् २

संहिता

प्राञ्चं॑ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् ।
दि॒वः श॑शासुर्वि॒दथा॑ कवी॒नां गृत्सा॑य चित्त॒वसे॑ गा॒तुमी॑षुः ॥

पदपाठः

प्राञ्च॑म् । य॒ज्ञम् । च॒कृ॒म॒ । वर्ध॑ताम् । गीः । स॒मित्ऽभिः॑ । अ॒ग्निम् । नम॑सा । दु॒व॒स्य॒न् ।
दि॒वः । श॒शा॒सुः॒ । वि॒दथा॑ । क॒वी॒नाम् । गृत्सा॑य । चि॒त् । त॒वसे॑ । गा॒तुम् । ई॒षुः॒ ॥

सायणभाष्यम्

हेअग्ने वयं यज्ञं प्राञ्चं प्रकर्षेणग्च्छन्तं चकृम अकार्ष्म गीः मदीयास्तुतिः वर्धतां एधतां अग्निंसमिद्धिर्नम्स्वाहविषाचदुवस्यन् अस्म्दीयाः परिचरेयुः किञ्च दिवोद्युलोकादागत्य देवाः कवीनां स्तोतॄणां विदथा ज्ञानानि स्तोत्राणिवाशशासुः अन्वशिषन् अपिच गृत्साय गृणातेरिदं रूपं स्तोतव्यायाग्नये तवसेवृद्धाय गातुंस्तोतुं ईषुश्रित् स्तोतारइच्छन्तिच चिदितिचार्थे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३