मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् ३

संहिता

मयो॑ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बन्धु॑र्ज॒नुषा॑ पृथि॒व्याः ।
अवि॑न्दन्नु दर्श॒तम॒प्स्व१॒॑न्तर्दे॒वासो॑ अ॒ग्निम॒पसि॒ स्वसॄ॑णाम् ॥

पदपाठः

मयः॑ । द॒धे॒ । मेधि॑रः । पू॒तऽद॑क्षः । दि॒वः । सु॒ऽबन्धुः॑ । ज॒नुषा॑ । पृ॒थि॒व्याः ।
अवि॑न्दन् । ऊं॒ इति॑ । द॒र्श॒तम् । अ॒प्ऽसु । अ॒न्तः । दे॒वासः॑ । अ॒ग्निम् । अ॒पसि॑ । स्वसॄ॑णाम् ॥

सायणभाष्यम्

मेधिरः मेधावान् प्राज्ञः पूतदक्षः शुद्धबलः जनुषा जन्ममात्रेणसुबन्धुः शोभनबन्धुः स्वत एवबन्धुरितियावत् योग्निर्दिवोद्युलोकस्य पृथिव्याः भूमेश्चमयः सुखंदधेविदधाति देवानांमनुष्या णांचसुखंकरोतीतियावत् तंदर्शतं दर्शनीयमग्निं देवासोदेवाः स्वसॄणां सरणशीलानांनदीनामप्स्व न्तर्गूढं स्थितं अपसि यज्ञवहनरूपेकर्मणिनिमित्ते उइतिपूरणः अविन्दन् लब्धवन्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३