मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् ६

संहिता

व॒व्राजा॑ सी॒मन॑दती॒रद॑ब्धा दि॒वो य॒ह्वीरव॑साना॒ अन॑ग्नाः ।
सना॒ अत्र॑ युव॒तय॒ः सयो॑नी॒रेकं॒ गर्भं॑ दधिरे स॒प्त वाणी॑ः ॥

पदपाठः

व॒व्राज॑ । सी॒म् । अन॑दतीः । अद॑ब्धाः । दि॒वः । य॒ह्वीः । अव॑सानाः । अन॑ग्नाः ।
सनाः॑ । अत्र॑ । यु॒व॒तयः॑ । सऽयो॑नीः । एक॑म् । गर्भ॑म् । द॒धि॒रे॒ । स॒प्त । वाणीः॑ ॥

सायणभाष्यम्

अनदतीः अभक्षयन्तीः अदब्धाः अहिंसिताः मातृभूताः अपोग्निः सींसर्वतोवव्राज व्रजति अग्निरपांशोषकः तंचापः शमयन्तितदुभयमिहनास्तीत्युक्तंभवति कीदृश्यस्ताः दियोयह्वीः अन्तरिक्षस्यापत्यभूताः अवसानाः वस्त्रमनाच्छादयन्त्यः वस्त्रस्थानीयस्यजलस्य विद्यमानत्वात् अतएवनग्नाः किञ्च ताअपिसनाः सनातन्यः युवतयः नित्यतरुण्यः नित्यव्रुद्धाइत्यर्थः सयोनीः समानमन्तरिक्षंयोनिस्थानंयासांताः सप्तवाणीः नद्यः एकं अग्निंगर्भंगर्भस्थं दधिरेदधते ‌ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४