मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् ७

संहिता

स्ती॒र्णा अ॑स्य सं॒हतो॑ वि॒श्वरू॑पा घृ॒तस्य॒ योनौ॑ स्र॒वथे॒ मधू॑नाम् ।
अस्थु॒रत्र॑ धे॒नव॒ः पिन्व॑माना म॒ही द॒स्मस्य॑ मा॒तरा॑ समी॒ची ॥

पदपाठः

स्ती॒र्णाः । अ॒स्य॒ । स॒म्ऽहतः॑ । वि॒श्वऽरू॑पाः । घृ॒तस्य॑ । योनौ॑ । स्र॒वथे॑ । मधू॑नाम् ।
अस्थुः॑ । अत्र॑ । धे॒नवः॑ । पिन्व॑मानाः । म॒ही इति॑ । द॒स्मस्य॑ । मा॒तरा॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची ॥

सायणभाष्यम्

घृतस्योदकस्य योनौस्थाने अन्तरिक्षे संहतः पुञ्चीभूताः हन्तेःक्विप् विश्वरूपाः नानारूपाः स्तीर्णाः सर्वत्रप्रसृताः अस्याग्नेःरश्मयः मधूनामुदकानां स्रवथेस्रवणे निमित्ते अस्थुस्तिष्ठन्ति पिन्व मानाः पूर्यमाणाः अत्रअग्नौआपः धेनवः सर्वेषां प्रीणयित्र्यः अभवन् समीची समञ्चत्यौ शोभमाने मही महत्यौद्यावापृथिव्यौ दस्मस्यदर्शनीयस्याग्नेर्मातरा मातरौ भवतः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४