मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् ८

संहिता

ब॒भ्रा॒णः सू॑नो सहसो॒ व्य॑द्यौ॒द्दधा॑नः शु॒क्रा र॑भ॒सा वपूं॑षि ।
श्चोत॑न्ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये॑न ॥

पदपाठः

ब॒भ्रा॒णः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वि । अ॒द्यौ॒त् । दधा॑नः । शु॒क्रा । र॒भ॒सा । वपूं॑षि ।
श्चोत॑न्ति । धाराः॑ । मधु॑नः । घृ॒तस्य॑ । वृषा॑ । यत्र॑ । व॒वृ॒धे । काव्ये॑न ॥

सायणभाष्यम्

हेसहसःसूनो सहसस्पूत्रअग्ने बभ्राणः सर्वैर्धार्यमाणःत्वं शुक्राशुक्राणिभास्वराणिरभसा वेग वन्ति वपूंषि अर्चींषिदधानः धारयंस्त्वं व्यद्यौत् विद्योतसे वृषाग्निः यत्रयस्मिन्यजमानेकाव्ये नस्तोत्रेणववृधेवृद्धिंप्राप्नोतितदानींमधुनः अत्यन्तं मधुरस्यघृत्स्यौदकस्यधाराः श्चोतन्ति स्रवन्ते यदायजमानस्तोत्रेणअग्निस्तुष्टोभवति तदानींवृष्टिर्भ्वतीत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४