मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् ९

संहिता

पि॒तुश्चि॒दूध॑र्ज॒नुषा॑ विवेद॒ व्य॑स्य॒ धारा॑ असृज॒द्वि धेना॑ः ।
गुहा॒ चर॑न्तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा॑ बभूव ॥

पदपाठः

पि॒तुः । चि॒त् । ऊधः॑ । ज॒नुषा॑ । वि॒वे॒द॒ । वि । अ॒स्य॒ । धाराः॑ । अ॒सृ॒ज॒त् । वि । धेनाः॑ ।
गुहा॑ । चर॑न्तम् । सखि॑ऽभिः । शि॒वेभिः॑ । दि॒वः । य॒ह्वीभिः॑ । न । गुहा॑ । ब॒भू॒व॒ ॥

सायणभाष्यम्

पितुः अन्तरिक्षस्यऊधः ऊधःस्थानोयजलप्रदेशंअयमग्निर्जनुषास्वयमेवविवेद जानाति किं चायमग्निः अस्योधसः संबन्धिन्योधाराः पयोधाराः व्यसृजत् विसृष्टवान् धेनामाध्यमिकावाचः विसृजति शिवेभिः शिवंकरैः सखिभिः आत्मनःसखिभूतैर्वायुभिः दिवोयह्वीभिः अन्तरिक्षस्या पत्यभूताभिरद्भिश्चसह गुहागुहायांचरन्तं वर्तमानमेनमग्निंगुहाचित् गुहायांस्थितः कोपिनबभूव प्राप्तुंसमर्थोनाभवत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४