मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् १०

संहिता

पि॒तुश्च॒ गर्भं॑ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको॑ अधय॒त्पीप्या॑नाः ।
वृष्णे॑ स॒पत्नी॒ शुच॑ये॒ सब॑न्धू उ॒भे अ॑स्मै मनु॒ष्ये॒३॒॑ नि पा॑हि ॥

पदपाठः

पि॒तुः । च॒ । गर्भ॑म् । ज॒नि॒तुः । च॒ । ब॒भ्रे॒ । पू॒र्वीः । एकः॑ । अ॒ध॒य॒त् । पीप्या॑नाः ।
वृष्णे॑ । स॒पत्नी॒ इति॑ स॒ऽपत्नी॑ । शुच॑ये । सब॑न्धू॒ इति॑ सऽब॑न्धू । उ॒भे इति॑ । अ॒स्मै॒ । म॒नु॒ष्ये॒३॒॑ इति॑ । नि । पा॒हि॒ ॥

सायणभाष्यम्

अयमग्निः पितुश्च अन्तरिक्षस्यगर्भं वृष्टिद्वारागर्भभूतं जनितुः सर्वस्यलोकस्यजनयितुश्च ब्रह्म णश्च लोकं बभ्रेबिभर्ति एकएवाग्निः पूर्वीर्बह्वोः पीप्यानाः प्यायमानाः वृद्धिंप्राप्ताः ओषधीः अधयत धयतिभक्षयति सपत्नी समानएकः सूर्यःपतिर्ययोःते मनुष्ये मनुष्येभ्योहिते उभेद्या- वापृथिव्यौ वृष्णेवर्षित्रे अस्मैशुच्येअग्नये सबन्धूभवतः अनयोः अग्निरेवबन्धुरित्यर्थः हे अग्ने त्वं- तेद्यावापृथिव्यौ निपाहि नितरांरक्ष ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४