मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् ११

संहिता

उ॒रौ म॒हाँ अ॑निबा॒धे व॑व॒र्धापो॑ अ॒ग्निं य॒शस॒ः सं हि पू॒र्वीः ।
ऋ॒तस्य॒ योना॑वशय॒द्दमू॑ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ॑णाम् ॥

पदपाठः

उ॒रौ । म॒हान् । अ॒नि॒ऽबा॒धे । व॒व॒र्ध॒ । आपः॑ । अ॒ग्निम् । य॒शसः॑ । सम् । हि । पू॒र्वीः ।
ऋ॒तस्य॑ । योनौ॑ । अ॒श॒य॒त् । दमू॑नाः । जा॒मी॒नाम् । अ॒ग्निः । अ॒पसि॑ । स्वसॄ॑णाम् ॥

सायणभाष्यम्

महानयमग्निः अनिबाधे असंबाधे उरौविस्तीर्णेन्तरिक्षे ववर्ध अस्यवर्धनेकारणमाह—हिय स्मात्कारणात् पूवीर्बह्व्यः यशसः यशोन्नं तद्वत्य आपः अग्निं संवर्धयन्ति एवं अद्भिर्वृद्धिंप्राप्तो ग्निः ऋतस्यउदकस्ययोनौ स्थानेन्तरिक्षेस्थितः स्वसॄणांस्वतःस्सरन्तीनां जामीनां भगिनीस्थानी यानां नदीनांहेतुभूतेअपसिपयसि दमूनाः दान्तमनाःसन् अशयत् शेते ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५