मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् १२

संहिता

अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां॑ दिदृ॒क्षेयः॑ सू॒नवे॒ भाऋ॑जीकः ।
उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो अ॒ग्निः ॥

पदपाठः

अ॒क्रः । न । ब॒भ्रिः । स॒म्ऽइ॒थे । म॒हीना॑म् । दि॒दृ॒क्षेयः॑ । सू॒नवे॑ । भाःऽऋ॑जीकः ।
उत् । उ॒स्रियाः॑ । जनि॑ता । यः । ज॒जान॑ । अ॒पाम् । गर्भः॑ । नृऽत॑मः । य॒ह्वः । अ॒ग्निः ॥

सायणभाष्यम्

जनिता सर्वस्यलोकस्यजनयिता अपांउदकानांगर्भः गर्भरूपः नृतमः नेतृतमः अतिशयेन मनुष्याणांरक्षिता यह्वः महान् योग्निः अक्रः परेषामाक्रमितापरैरनाक्रमणीयोवा नेतिपाद पूरणः समिथेसङ्ग्रामे महीनांमहतीनांस्वसेनानां बभ्रिःभर्ता दिदृक्षेयः सर्वैर्दर्शनीयः भाऋजीकः स्वदीप्त्याप्रकाशमानः सोग्निः सूनवेहविषांप्रदात्रे यजमानाय तदर्थं उस्रियाः अपः उज्जजानौद जनयत् सूनवे षूप्रेरणे इत्यस्माद्धातोरौणादिकोनुप्रत्ययः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५