मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् १४

संहिता

बृ॒हन्त॒ इद्भा॒नवो॒ भाऋ॑जीकम॒ग्निं स॑चन्त वि॒द्युतो॒ न शु॒क्राः ।
गुहे॑व वृ॒द्धं सद॑सि॒ स्वे अ॒न्तर॑पा॒र ऊ॒र्वे अ॒मृतं॒ दुहा॑नाः ॥

पदपाठः

बृ॒हन्तः॑ । इत् । भा॒नवः॑ । भाःऽऋ॑जीकम् । अ॒ग्निम् । स॒च॒न्त॒ । वि॒ऽद्युतः॑ । न । शु॒क्राः ।
गुहा॑ऽइव । वृ॒द्धम् । सद॑सि । स्वे । अ॒न्तः । अ॒पा॒रे । ऊ॒र्वे । अ॒मृत॑म् । दुहा॑नाः ॥

सायणभाष्यम्

अपारेअगाधेऊर्वेसमुद्रे अन्तर्मध्ये अमृतं उदकंदुहानाः क्षरन्तः बृहन्तइत् महान्तएव भानवः रश्मयः शुक्राः दीफ्यमानाः विद्युतोन विद्युतइवस्वेस्वकीयेसद्ंसिसदनेअन्तरिक्षे गुहेवगुहायामि ववृद्धंप्रवृद्धं भाऋजीकं प्रभयादीप्यमानं अग्निंसचन्तआश्रयन्ति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५