मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् १५

संहिता

ईळे॑ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे॑ सखि॒त्वं सु॑म॒तिं निका॑मः ।
दे॒वैरवो॑ मिमीहि॒ सं ज॑रि॒त्रे रक्षा॑ च नो॒ दम्ये॑भि॒रनी॑कैः ॥

पदपाठः

ईळे॑ । च॒ । त्वा॒ । यज॑मानः । ह॒विःऽभिः॑ । ईळे॑ । स॒खि॒ऽत्वम् । सु॒ऽम॒तिम् । निऽका॑मः ।
दे॒वैः । अवः॑ । मि॒मी॒हि॒ । सम् । ज॒रि॒त्रे । रक्ष॑ । च॒ । नः॒ । दम्ये॑भिः । अनी॑कैः ॥

सायणभाष्यम्

यजमानोऽहं हविर्भिःसाधनैः त्वात्वां ईळे पूजयामि च पश्वादिलक्षणंधनंचयाचे सुमतिंशोभ नांमतिं धर्मविषयांबुद्धिं निकामः नितरांकामयमानः त्वयासहसस्वित्वं ईळेयाचे त्वंदेवैःसहज रित्रेस्तोत्रेस्तोत्रंकुर्वते मह्यं अस्मदर्थं अवः पश्वादिविषयांरक्षांसंमिमीहिकुरु दम्येभिर्दमनीयैर्नि यन्तव्यैः प्रयत्ननियन्तव्यतया उच्छृंखलतोक्ता अनीकिस्तेजोभिः नः अस्मान् रक्षच ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५