मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् १६

संहिता

उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा॑नि॒ धन्या॒ दधा॑नाः ।
सु॒रेत॑सा॒ श्रव॑सा॒ तुञ्ज॑माना अ॒भि ष्या॑म पृतना॒यूँरदे॑वान् ॥

पदपाठः

उ॒प॒ऽक्षे॒तारः॑ । तव॑ । सु॒ऽप्र॒नी॒ते॒ । अ॒ग्ने॒ । विश्वा॑नि । धन्या॑ । दधा॑नाः ।
सु॒ऽरेत॑सा । श्रव॑सा । तुञ्ज॑मानाः । अ॒भि । स्या॒म॒ । पृ॒त॒ना॒ऽयून् । अदे॑वान् ॥

सायणभाष्यम्

हेसुप्रणीते शोभनप्रणयन हेअग्ने तवउपक्षेतारः उपगन्तारः अत्रक्षितिर्गत्यर्थेवर्तते विश्वानि सर्वाणिधन्याधन्यानिपश्वादिधनप्राप्तिहेतुभूतानिकर्माणि दधानाः विदधानाः कुर्वन्तः तुञ्चमानाः हवींषिप्रयच्छन्तोवयं सुरेतसाशोभनवीर्येण श्रवसात्वत्कृतेनान्नेनअदेवान् देवेभ्योन्यान् नञिवयु क्तन्यायेन राक्षसाएवगृह्यन्ते यज्ञविघ्नकारिणस्तान् पृतनायूंश्चशरीराद्युपद्रवकारिणः शत्रूंश्चअभि ष्यामअभिभवेम यद्वा देवान् अपूजयतः शत्रूनितिवायोज्यम् ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६