मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् १८

संहिता

नि दु॑रो॒णे अ॒मृतो॒ मर्त्या॑नां॒ राजा॑ ससाद वि॒दथा॑नि॒ साध॑न् ।
घृ॒तप्र॑तीक उर्वि॒या व्य॑द्यौद॒ग्निर्विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ॥

पदपाठः

नि । दु॒रो॒णे । अ॒मृतः॑ । मर्त्या॑नाम् । राजा॑ । स॒सा॒द॒ । वि॒दथा॑नि । साध॑न् ।
घृ॒तऽप्र॑तीकः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । अ॒ग्निः । विश्वा॑नि । काव्या॑नि । वि॒द्वान् ॥

सायणभाष्यम्

अमृतः नित्यः राजा राजमानोयोग्निः विदथानियज्ञान् साधन् साधयन् मर्त्यानां अग्नि होत्रिणां दुरोणेगृहे निषसाद निषीदति विश्वानिकाव्यानिविद्वान् जानन् घृतप्रतीकः घृते- नसंधुक्षितावयवः उर्वियाविस्तीर्णः सोग्निः व्यद्यौत् विद्योतते ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६