मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् १९

संहिता

आ नो॑ गहि स॒ख्येभि॑ः शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभि॑ः सर॒ण्यन् ।
अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं॑ भा॒गं य॒शसं॑ कृधी नः ॥

पदपाठः

आ । नः॒ । ग॒हि॒ । स॒ख्येभिः॑ । शि॒वेभिः॑ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ । स॒र॒ण्यन् ।
अ॒स्मे इति॑ । र॒यिम् । ब॒हु॒लम् । सम्ऽत॑रुत्रम् । सु॒ऽवाच॑म् । भा॒गम् । य॒शस॑म् । कृ॒धि॒ । नः॒ ॥

सायणभाष्यम्

सरण्यन् सर्वत्रसरणंगमनमिच्छन् महांस्त्वं शिवेभिः शिवंकरैः सख्येभिः सख्यैः सखिकर्म भिः महीभिः महतीभिरूतिभीरक्षाभिश्चनोस्मान् प्रतिआगहि आगच्छ अस्मे अस्मभ्यं बहुलं विस्तीर्णं संतरुत्रं सर्वेषामुपद्रवाणां संतारकं सुवाचं शोभनवाचं भागंसर्वैर्भजनीयंयशसं यश साकीर्त्यासंयुक्तंरयिंधनं नोस्मभ्यं कृधिदेहि अस्मभ्यमितिपुनर्वचनमादरातिशयार्थम् ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६