मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् २०

संहिता

ए॒ता ते॑ अग्ने॒ जनि॑मा॒ सना॑नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचम् ।
म॒हान्ति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दाः ॥

पदपाठः

ए॒ता । ते॒ । अ॒ग्ने॒ । जनि॑म । सना॑नि । प्र । पू॒र्व्याय॑ । नूत॑नानि । वो॒च॒म् ।
म॒हान्ति॑ । वृष्णे॑ । सव॑ना । कृ॒ता । इ॒मा । जन्म॑न्ऽजन्मन् । निऽहि॑तः । जा॒तऽवे॑दाः ॥

सायणभाष्यम्

हेअग्ने पूर्व्यायपुरतनायतेतुभ्यं सनानिसनातनानिमहद्भिः संभजनीयानिवानूतनानि अन्ये ष्वविद्यमानानि अद्यतनानिवा एताएतानिजनिम जन्मानिकर्माणिस्तोत्राणिवाप्रवोचं प्रोक्तवा नस्मि जातवेदाः जातप्रज्ञोजातधनोवा जन्मन् जन्मन् जायन्तइतिजन्मानः तेषुसर्वेषु मनुष्ये षुनिहितोयागार्थं तस्मैवृष्णे संपदांवर्षित्रे अग्नये इमाइमानि महान्तिबृहन्ति सवना सवनानि कृता कृतानि ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६