मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् २१

संहिता

जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दा वि॒श्वामि॑त्रेभिरिध्यते॒ अज॑स्रः ।
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

पदपाठः

जन्म॑न्ऽजन्मन् । निऽहि॑तः । जा॒तऽवे॑दाः । वि॒श्वामि॑त्रेभिः । इ॒ध्य॒ते॒ । अज॑स्रः ।
तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥

सायणभाष्यम्

जन्मन् जन्मन् सर्वेषुमनुष्येषुनिहितोजातवेदाः विश्वामित्रेभिः विश्वामित्रैः पूजायांबहुवचनं महर्षिणा विश्वामित्रेण योजातवेदाः अजस्रः अजस्रं अनवरतं इध्यते दीप्यते सुमतौ कल्याण्यां मतौ वर्तमानावयं तस्ययज्ञियस्ययज्ञार्हस्याग्नेर्भद्रे भजनीये सौमनसे सुमनोभावे अनुग्रहबुद्धौ अपिस्याम अपिभवेम प्रार्थनायांलिङ् ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६