मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् २२

संहिता

इ॒मं य॒ज्ञं स॑हसाव॒न्त्वं नो॑ देव॒त्रा धे॑हि सुक्रतो॒ ररा॑णः ।
प्र यं॑सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥

पदपाठः

इ॒मम् । य॒ज्ञम् । स॒ह॒सा॒ऽव॒न् । त्वम् । नः॒ । दे॒व॒ऽत्रा । धे॒हि॒ । सु॒ऽक्र॒तो॒ इति॑ सुऽक्रतो । ररा॑णः ।
प्र । यं॒सि॒ । हो॒तः॒ । बृ॒ह॒तीः । इषः॑ । नः॒ । अ॒ग्ने॒ । महि॑ । द्रवि॑णम् । आ । य॒ज॒स्व॒ ॥

सायणभाष्यम्

हेसहसावन् सहस्वन् बलवन् सुक्रतोशोभनकर्मन् हेअग्ने रराणः सर्वदारममाणः शब्दं कुर्वा णोवात्वं नोस्मदीयमिमंयज्ञं देवत्रादेवेषुधेहिनिधेहि हेहोतः देवानामाह्वातः बृहतीः इषः अन्ना निनोस्मभ्यं प्रयंसिप्रयच्छ हेअग्नेमहिमहत् द्रविणंपश्वादिलक्षणं धनं आयजस्व प्रयच्छ अत्रयजि र्दानकर्मा ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६