मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २, ऋक् १

संहिता

वै॒श्वा॒न॒राय॑ धि॒षणा॑मृता॒वृधे॑ घृ॒तं न पू॒तम॒ग्नये॑ जनामसि ।
द्वि॒ता होता॑रं॒ मनु॑षश्च वा॒घतो॑ धि॒या रथं॒ न कुलि॑श॒ः समृ॑ण्वति ॥

पदपाठः

वै॒श्वा॒न॒राय॑ । धि॒षणा॑म् । ऋ॒त॒ऽवृधे॑ । घृ॒तम् । न । पू॒तम् । अ॒ग्नये॑ । ज॒ना॒म॒सि॒ ।
द्वि॒ता । होता॑रम् । मनु॑षः । च॒ । वा॒घतः॑ । धि॒या । रथ॑म् । न । कुलि॑शः । सम् । ऋ॒ण्व॒ति॒ ॥

सायणभाष्यम्

ऋतवृधे ऋतस्योदकस्य यज्ञस्यवावर्धयित्रेवैश्वानराय वैश्वानरशब्दोयास्केनव्याख्यातः—वैश्व नरः कस्माद्विश्वान्नरान्नयतिविश्वएवंनरानयंतीतिवाअपिवाविश्वानरएवस्यात् प्रत्यृतः सर्वाणिभूता नितस्यवैश्वानरस्तस्यैषाभवतीति । तस्मैअग्नये पूतघृतंन घृतमिव धिषणांस्तुतिंजनामसिजनया मः यथाघृतंप्रीतिंजनयति तथाप्रीतिंकरोमीत्यर्थः द्विताद्विधागार्हपत्याहवनीयरूपाभ्यांयुक्तं होता रंदेवानामाह्वातारमग्निंमनुषः मनुष्याः वाघतश्चऋत्विजश्च धियाकर्मणाकुलिशोवास्यादिः रथंन रथमिव समृण्वतिसंस्कुर्वन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७