मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २, ऋक् २

संहिता

स रो॑चयज्ज॒नुषा॒ रोद॑सी उ॒भे स मा॒त्रोर॑भवत्पु॒त्र ईड्य॑ः ।
ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो॑हितो दू॒ळभो॑ वि॒शामति॑थिर्वि॒भाव॑सुः ॥

पदपाठः

सः । रो॒च॒य॒त् । ज॒नुषा॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । सः । मा॒त्रोः । अ॒भ॒व॒त् । पु॒त्रः । ईड्यः॑ ।
ह॒व्य॒ऽवाट् । अ॒ग्निः । अ॒जरः॑ । चनः॑ऽहितः । दुः॒ऽदभः॑ । वि॒शाम् । अति॑थिः । वि॒भाऽव॑सुः ॥

सायणभाष्यम्

सोग्निर्जनुषा जन्मनाउभेरोदसी द्यावापृथिव्यौ रोचयत् अरोचयत् प्रकाशयति समात्रोर्द्या वापृथिव्योः ईड्यः स्तुत्यः पुत्रोभवत् हव्यवाट् हव्यानां वोढा अग्निः अङ्गनादिगुणयुक्तः अजरः जरारहितः चनोहितः चनोन्नंहितंयजमानेनिहितंयेनासौचनोहितः दूळभः हिंसितुम शक्यः सोयंविभावसुः प्रभाधनः विशांमनुष्याणां अतिथिरिवपूज्योभवति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७