मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २, ऋक् ४

संहिता

आ म॒न्द्रस्य॑ सनि॒ष्यन्तो॒ वरे॑ण्यं वृणी॒महे॒ अह्र॑यं॒ वाज॑मृ॒ग्मिय॑म् ।
रा॒तिं भृगू॑णामु॒शिजं॑ क॒विक्र॑तुम॒ग्निं राज॑न्तं दि॒व्येन॑ शो॒चिषा॑ ॥

पदपाठः

आ । म॒न्द्रस्य॑ । स॒नि॒ष्यन्तः॑ । वरे॑ण्यम् । वृ॒णी॒महे॑ । अह्र॑यम् । वाज॑म् । ऋ॒ग्मिय॑म् ।
रा॒तिम् । भृगू॑णाम् । उ॒शिज॑म् । क॒विऽक्र॑तुम् । अ॒ग्निम् । राज॑न्तम् । दि॒व्येन॑ । शो॒चिषा॑ ॥

सायणभाष्यम्

मन्द्रस्यस्तुत्यस्य वैश्वानरस्य संबन्धिनंवरेण्यंवरणीयं अह्रयंअलज्जावहं ऋग्मियंप्रशस्यं वाज मन्नं सनिष्यन्तः लिप्समानावयं भृगूणांऋषीणां रातिं अभिलषितार्थप्रदातारं उशिजं आभिल ष्यं तं कविक्रतुंक्रान्तप्रज्ञं दिव्येनदिविभवेन शोचिषारोचिषा राजन्तंभ्राजमानमग्निंआवृणीमहे संभजामहे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७