मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २, ऋक् ६

संहिता

पाव॑कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत॑र्य॒ज्ञेषु॑ वृ॒क्तब॑र्हिषो॒ नरः॑ ।
अग्ने॒ दुव॑ इ॒च्छमा॑नास॒ आप्य॒मुपा॑सते॒ द्रवि॑णं धेहि॒ तेभ्य॑ः ॥

पदपाठः

पाव॑कऽशोचे । तव॑ । हि । क्षय॑म् । परि॑ । होतः॑ । य॒ज्ञेषु॑ । वृ॒क्तऽब॑र्हिषः । नरः॑ ।
अग्ने॑ । दुवः॑ । इ॒च्छमा॑नासः । आप्य॑म् । उप॑ । आ॒स॒ते॒ । द्रवि॑णम् । धे॒हि॒ । तेभ्यः॑ ॥

सायणभाष्यम्

हेपावकशोचे शोधकदीप्ते हेहोतः देवानामाह्वातः हेअग्ने यज्ञेषुपरिपरितः व्रुक्तबर्हिषः स्तीर्णबर्हिषः दुवःपरिचरणमिच्छमानासः इच्छन्तोनरोनेतारोयजमानाः आप्यं आप्तुंयोग्यं तवत्वत्संबन्धिनंक्षयं निवासं यागगृहं उपासते उपविशति हियस्मात् तेभ्योद्रविणंधनंधेहि विधेहि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८