मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २, ऋक् ७

संहिता

आ रोद॑सी अपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ अधा॑रयन् ।
सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः ॥

पदपाठः

आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । आ । स्वः॑ । म॒हत् । जा॒तम् । यत् । ए॒न॒म् । अ॒पसः॑ । अधा॑रयन् ।
सः । अ॒ध्व॒राय॑ । परि॑ । नी॒य॒ते॒ । क॒विः । अत्यः॑ । न । वाज॑ऽसातये । चनः॑ऽहितः ॥

सायणभाष्यम्

रोदसी द्यावापृथिव्यौ आपृणात् आपूरयत् तथामहत्प्रभूतंस्वः अन्तरिक्षं आपृणच्च अपसः कर्मवन्तोयजमानाः जातंयत् यंएनमग्निं अधारयन् अत्योन अश्वइव कविःक्रान्तः सर्वत्रव्याप्तः चनोहितः निहितान्नः सोयमग्निः वाजसातये वाजस्य अन्नस्यकीर्तेर्वासातये लाभाय अध्वराय परिणीयते यज्ञार्थंनीयते ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८