मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २, ऋक् ९

संहिता

ति॒स्रो य॒ह्वस्य॑ स॒मिध॒ः परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒ अमृ॑त्यवः ।
तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे उप॑ जा॒मिमी॑यतुः ॥

पदपाठः

ति॒स्रः । य॒ह्वस्य॑ । स॒म्ऽइधः॑ । परि॑ऽज्मनः । अ॒ग्नेः । अ॒पु॒न॒न् । उ॒शिजः॑ । अमृ॑त्यवः ।
तासा॑म् । एका॑म् । अद॑धुः । मर्त्ये॑ । भुज॑म् । ऊं॒ इति॑ । लो॒कम् । ऊं॒ इति॑ । द्वे इति॑ । उप॑ । जा॒मिम् । ई॒य॒तुः॒ ॥

सायणभाष्यम्

उशिजः कामयमानाः अमृत्यवोमृत्युरहिताः येदेवाः यह्वस्यमहतः अग्नेः परिज्मनः परि तोगन्तुः समिधः समिन्धिकाः प्रकाशिकास्तिस्रः पार्थिववैद्युतसूर्यरूपास्तिस्रस्तनूः अपुनन् अशो धयन् तेदेवाः भुजंसर्वेषांपालयित्रीं तासांतनूनांमध्ये एकांपार्थिवींतनुं मर्त्येमर्त्यलोके अदधुः न्यदधुः उइतिपादपूरणः इतरेद्वेतनू जामिंलोकं आसन्नमन्तरिक्षं उपेयतुः गच्छतः अथवातिस्रः समिधः आधारसमिधौद्वेअनूयाजसमिच्चैकेति तासांसमिधांएकां अनूयाजसमिधं मर्त्येइहलोके भोगहेतुमनूयाजपर्यन्तमदधुः धारयन्ति प्रजावाअनूयाजइति प्रजात्वेनानूयाजानांस्रष्टृत्वात् तदा श्रयत्वाच्चानूयाजसमिधः इतरेद्वेसमिधौ अन्तरिक्षेदिव्यभोगहेतू उपेयतुः उपगच्छतः त्रीन् परिधीं स्तिस्रः समिधइतिहिनिगमः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८