मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २, ऋक् १०

संहिता

वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षी॒रिष॒ः सं सी॑मकृण्व॒न्त्स्वधि॑तिं॒ न तेज॑से ।
स उ॒द्वतो॑ नि॒वतो॑ याति॒ वेवि॑ष॒त्स गर्भ॑मे॒षु भुव॑नेषु दीधरत् ॥

पदपाठः

वि॒शाम् । क॒विम् । वि॒श्पति॑म् । मानु॑षीः । इषः॑ । सम् । सी॒म् । अ॒कृ॒ण्व॒न् । स्वऽधि॑तिम् । न । तेज॑से ।
सः । उ॒त्ऽवतः॑ । नि॒ऽवतः॑ । या॒ति॒ । वेवि॑षत् । सः । गर्भ॑म् । ए॒षु । भुव॑नेषु । दी॒ध॒र॒त् ॥

सायणभाष्यम्

इषः पश्वादिलक्षणंधनमिच्छन्त्यः मानुषीः मनुष्यप्रजाः विशांप्रजानां विश्पतिंप्रभुंकविंमेधा विनं सर्वितंयमग्निं स्वधितिन असिमिव तेजसे तैक्ष्ण्यार्थं समकृण्वन् समस्कुर्वन् सोग्निः उद्वतः उच्छ्रायवतः निवतोनीचैर्भाववतश्चप्रदेशान् वेविषत् व्याप्नुवन् यातिगच्छति सएषुभुवनेषु गर्भंगर्भत्वेनात्मानंदीधरत् अधारयत् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८