मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २, ऋक् ११

संहिता

स जि॑न्वते ज॒ठरे॑षु प्रजज्ञि॒वान्वृषा॑ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः ।
वै॒श्वा॒न॒रः पृ॑थु॒पाजा॒ अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे॑ ॥

पदपाठः

सः । जि॒न्व॒ते॒ । ज॒ठरे॑षु । प्र॒ज॒ज्ञि॒ऽवान् । वृषा॑ । चि॒त्रेषु॑ । नान॑दत् । न । सिं॒हः ।
वै॒श्वा॒न॒रः । पृ॒थु॒ऽपाजाः॑ । अम॑र्त्यः । वसु॑ । रत्ना॑ । दय॑मानः । वि । दा॒शुषे॑ ॥

सायणभाष्यम्

प्रजज्ञिवान् जातः वृषावर्षकः सवैश्वानरः चित्रेषुनानाप्रकारेषु प्राणिनां भेदात् जठराणां भेदः तेषुजिन्वतेवर्धते चित्रेषुनानाविधेष्वरण्येषु नानदत् अत्यर्थं शब्दंकुर्वन् सिंहोन सिंहइव किंविधोवैश्वानरः पृथुपाजाः पृथुतेजाः अथवा पृथुवेगः अमर्त्यः मनणधर्मरहितः दाशुषेहवि षांप्रदात्रे यजमानाय रत्नारमणीयानि वसुवसूनि धनानि वि विशेषेण दयमानः प्रयच्छन् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९