मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २, ऋक् १२

संहिता

वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः ।
स पू॑र्व॒वज्ज॒नय॑ञ्ज॒न्तवे॒ धनं॑ समा॒नमज्मं॒ पर्ये॑ति॒ जागृ॑विः ॥

पदपाठः

वै॒श्वा॒न॒रः । प्र॒त्नऽथा॑ । नाक॑म् । आ । अ॒रु॒ह॒त् । दि॒वः । पृ॒ष्ठम् । भन्द॑मानः । सु॒मन्म॑ऽभिः ।
सः । पू॒र्व॒ऽवत् । ज॒नय॑न् । ज॒न्तवे॑ । धन॑म् । स॒मा॒नम् । अज्म॑म् । परि॑ । ए॒ति॒ । जागृ॑विः ॥

सायणभाष्यम्

सुमन्मभिः स्तोतृभिः भन्दमानः स्तूयमानः वैश्वानरः जातमावएवप्रत्नथा प्रत्नइव चिरंतन इव नाकं कंसुखं अकंदुःखं नविद्यतेअकंयस्मिन् तत् नाकं दिवः अन्तरिक्षस्यपृष्ठं उपरितनप्रदेशं स्वशोचिभिः आरुहत् आरोहति सवैश्वानरः पूर्ववत् पूर्वेभ्यऋषिभ्यइव जन्तवे स्तोत्रेयजमानाय धनंपश्वादिलक्षणं जनयन् स्ंपादयन् जागृविःसदाप्रबुद्धः समानं सर्वेषां देवाणंसाधारणं अज्मं आकाशमार्गं पर्येति सूर्यरूपेणगच्छति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९