मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २, ऋक् १३

संहिता

ऋ॒तावा॑नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॒॑मा यं द॒धे मा॑त॒रिश्वा॑ दि॒वि क्षय॑म् ।
तं चि॒त्रया॑मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से ॥

पदपाठः

ऋ॒तऽवा॑नम् । य॒ज्ञिय॑म् । विप्र॑म् । उ॒क्थ्य॑म् । आ । यम् । द॒धे । मा॒त॒रिश्वा॑ । दि॒वि । क्षय॑म् ।
तम् । चि॒त्रऽया॑मम् । हरि॑ऽकेशम् । ई॒म॒हे॒ । सु॒ऽदी॒तिम् । अ॒ग्निम् । सु॒वि॒ताय॑ । नव्य॑से ॥

सायणभाष्यम्

ऋतावानं बलवन्तं यज्ञियंयज्ञार्हं विप्रंमेधाविनं उक्थ्यं स्तुत्यं दिविद्युलोकेक्षयं निवसन्तं यमग्निं मातरिश्वावायुः द्युलोकादाहृत्यपृथिव्यां आदधे आहितवान् चित्रयानं नानाविधगमनं हरिकेशं पिंगलार्चिषं सुदीतिं शोभनदीप्तिंतमग्निं नव्यसेनवतराय सुविताय सुष्ठुप्राप्तव्यायध नाय तदर्थंईमहेयाचामहे ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९