शुचिं॒ न याम॑न्निषि॒रं स्व॒र्दृशं॑ के॒तुं दि॒वो रो॑चन॒स्थामु॑ष॒र्बुध॑म् ।
अ॒ग्निं मू॒र्धानं॑ दि॒वो अप्र॑तिष्कुतं॒ तमी॑महे॒ नम॑सा वा॒जिनं॑ बृ॒हत् ॥
शुचि॑म् । न । याम॑न् । इ॒षि॒रम् । स्वः॒ऽदृश॑म् । के॒तुम् । दि॒वः । रो॒च॒न॒ऽस्थाम् । उ॒षः॒ऽबुध॑म् ।
अ॒ग्निम् । मू॒र्धान॑म् । दि॒वः । अप्र॑तिऽस्कुतम् । तम् । ई॒म॒हे॒ । नम॑सा । वा॒जिन॑म् । बृ॒हत् ॥
नेतिसंप्रत्यर्थे शुचिंदीप्तं यामन् यामनियज्ञे इषिरंएषणीयं स्वर्दृशंसर्वदृशंसर्वपदार्थविज्ञानयुक्तं दिवः द्युलोकस्यकेतुं प्रज्ञापकं रोचनस्थांरोचनस्थं रोचनःसूर्यः तस्मिन् तिष्ठन्तं उषर्बुधं अग्निहो त्रिकरूपेण उषसिप्रबुध्यमानं दिवःस्वर्गस्यमूर्धानंप्रधानं अप्रतिष्कुतंअप्रतिहतशब्दं वाजिनमन्न वन्तं बृहत् महान्तं तमग्निं नमसास्तोत्रेण ईमहेयाचामहे ॥ १४ ॥