मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २, ऋक् १५

संहिता

म॒न्द्रं होता॑रं॒ शुचि॒मद्व॑याविनं॒ दमू॑नसमु॒क्थ्यं॑ वि॒श्वच॑र्षणिम् ।
रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु॑र्हितं॒ सद॒मिद्रा॒य ई॑महे ॥

पदपाठः

म॒न्द्रम् । होता॑रम् । शुचि॑म् । अद्व॑याविनम् । दमू॑नसम् । उ॒क्थ्य॑म् । वि॒श्वऽच॑र्षणिम् ।
रथ॑म् । न । चि॒त्रम् । वपु॑षाय । द॒र्श॒तम् । मनुः॑ऽहितम् । सद॑म् । इत् । रा॒यः । ई॒म॒हे॒ ॥

सायणभाष्यम्

मन्द्रं स्तुत्यंहोतारंदेवानामाह्वातारं शुचिंसर्वदाशुद्धं अद्वयाविनंद्वयहीनं अकुटिलं दमूनसंदा- नमनसं उक्थ्यंश्रेष्ठं विश्वचर्षणिंविश्वस्यद्रष्टारं चित्रं नानाविधवर्णं रथंन रथमिव वपुषाय रूपार्थं दर्शतंदर्शनीयं सदमित् सदैवमनुर्हितं सर्वेभ्योमनुष्येभ्योहितं तमग्निंरायोधनानिईमहेयाचामहे अत्रताच्चार्थत्वादस्यद्विकर्मकत्वम् ॥ १५ ॥

वैश्वानरायेत्येकादशर्चंतृतीयंसुक्तं वैश्वामित्रं अत्रेयमनुक्रमणिका—वैश्वानरायैकादशेति । पूर्व सूक्तेवैश्वानरीयंतुजागतंत्वित्युक्तत्वादस्यापिसूक्तस्यजगतीछन्दः वैश्वानरोग्निर्देवता अस्य सूक्तस्य अग्निष्टोमेआग्निमारुतशस्त्रेविनियोगः सूत्र्यतेहि—वैश्वानरायपृथुपाजसेशंनः—करत्यर्वतइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९