मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३, ऋक् १

संहिता

वै॒श्वा॒न॒राय॑ पृथु॒पाज॑से॒ विपो॒ रत्ना॑ विधन्त ध॒रुणे॑षु॒ गात॑वे ।
अ॒ग्निर्हि दे॒वाँ अ॒मृतो॑ दुव॒स्यत्यथा॒ धर्मा॑णि स॒नता॒ न दू॑दुषत् ॥

पदपाठः

वै॒श्वा॒न॒राय॑ । पृ॒थु॒ऽपाज॑से । विपः॑ । रत्ना॑ । वि॒ध॒न्त॒ । ध॒रुणे॑षु । गात॑वे ।
अ॒ग्निः । हि । दे॒वान् । अ॒मृतः॑ । दु॒व॒स्यति॑ । अथ॑ । धर्मा॑णि । स॒नता॑ । न । दू॒दु॒ष॒त् ॥

सायणभाष्यम्

विपोमेधाविनः स्तोतारः पृथुपाजसे बहुबलायबह्वन्नायवापाजः शब्दस्यबलान्ननाम्नोःपाठात् वैश्वानरायाग्नये धरुणेषुधर्मेषुयज्ञेषु रत्ना रमणीयानिस्तोत्राणि गातवे सन्मार्गलाभाय विधन्त परिचरन्तिकुर्वन्ति अमृतः मरणरहितोग्निः देवानदुवस्यति हविषांप्रदानेनपरिचरतिहिः प्रसिद्धौ अथअतःकारणात कोपिसनता सनातनानि धर्माणि यज्ञान् नदूदुषत् नदूषयति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०