मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३, ऋक् ३

संहिता

के॒तुं य॒ज्ञानां॑ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा॑सो अ॒ग्निं म॑हयन्त॒ चित्ति॑भिः ।
अपां॑सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि॑न्त्सु॒म्नानि॒ यज॑मान॒ आ च॑के ॥

पदपाठः

के॒तुम् । य॒ज्ञाना॑म् । वि॒दथ॑स्य । साध॑नम् । विप्रा॑सः । अ॒ग्निम् । म॒ह॒य॒न्त॒ । चित्ति॑ऽभिः ।
अपां॑सि । यस्मि॑न् । अधि॑ । स॒म्ऽद॒धुः । गिरः॑ । तस्मि॑न् । सु॒म्नानि॑ । यज॑मानः । आ । च॒के॒ ॥

सायणभाष्यम्

यज्ञानांकेतुंप्रज्ञापकंविदथस्ययज्ञस्यगृहस्यवासाधनं प्राप्तिसाधनं असाधारणकारणं सन्तमग्निं विप्रासोविप्राः चित्तिभिः स्वकर्मभिः महयन्त पूजयन्ति किंच गिरः स्तोतारः यस्मिन्नग्नौअपां सिस्वानुष्ठेयानिकर्माणिअधिसंदधुः संदधते यजमानः तस्मिन्नग्नौ सुम्नानिसुखानि प्राप्तुं आचके कामयते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०