मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३, ऋक् ४

संहिता

पि॒ता य॒ज्ञाना॒मसु॑रो विप॒श्चितां॑ वि॒मान॑म॒ग्निर्व॒युनं॑ च वा॒घता॑म् ।
आ वि॑वेश॒ रोद॑सी॒ भूरि॑वर्पसा पुरुप्रि॒यो भ॑न्दते॒ धाम॑भिः क॒विः ॥

पदपाठः

पि॒ता । य॒ज्ञाना॑म् । असु॑रः । वि॒पः॒ऽचिता॑म् । वि॒ऽमान॑म् । अ॒ग्निः । व॒युन॑म् । च॒ । वा॒घता॑म् ।
आ । वि॒वे॒श॒ । रोद॑सी॒ इति॑ । भूरि॑ऽवर्पसा । पु॒रु॒ऽप्रि॒यः । भ॒न्द॒ते॒ । धाम॑ऽभिः । क॒विः ॥

सायणभाष्यम्

यज्ञानां पितापालयिता विपश्चितां विदुषांस्तोतॄणां असुरोबलप्रदः वाघतां ऋत्विजां वयुनं ज्ञानसाधनं विमानं विमीयतेनेनफलमितिविमानंयज्ञादिकर्मसाधनंचसोऽग्निः भूरिवर्पसा पार्थि ववैद्युतादिबहुविधरूपेण रोदसीद्यावापृथिव्यौ आविवेश प्रविशति पुरुप्रियः मनुष्येषु अधिकं प्रियः अथवापुरूणां श्रेष्ठानां प्रियः धामभिस्तेजोभिर्युक्तः कविरग्निर्भन्दते यजमानेन स्तयते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०