मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३, ऋक् ५

संहिता

च॒न्द्रम॒ग्निं च॒न्द्रर॑थं॒ हरि॑व्रतं वैश्वान॒रम॑प्सु॒षदं॑ स्व॒र्विद॑म् ।
वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं॑ दे॒वास॑ इ॒ह सु॒श्रियं॑ दधुः ॥

पदपाठः

च॒न्द्रम् । अ॒ग्निम् । च॒न्द्रऽर॑थम् । हरि॑ऽव्रतम् । वै॒श्वा॒न॒रम् । अ॒प्सु॒ऽसद॑म् । स्वः॒ऽविद॑म् ।
वि॒ऽगा॒हम् । तूर्णि॑म् । तवि॑षीभिः । आऽवृ॑तम् । भूर्णि॑म् । दे॒वासः॑ । इ॒ह । सु॒ऽश्रिय॑म् । द॒धुः॒ ॥

सायणभाष्यम्

देवासोदेवाः माह्लादकरं चन्द्ररथं हिरण्मयरथं चन्द्रआह्लादकोरथोयस्येति वा तंहरिव्रतं पिङ्गलवण हरित्त्वचंवा हरित्त्वचमितिशाखान्तरं अप्सुषदं अप्सुसीदन्तं स्वर्विदं सर्वज्ञं विगाहं विगाहमानं सर्वत्रव्याप्तं तूर्णि क्षिप्रगामिनं शत्रूणां हिंसितारंवा तविषीभिः बलैरावृतं भूर्णि भर्तारं सुश्रियं शोभनदीप्तिं वैश्वानरं अग्निं इह इहलोके दधुः आदधुः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०