मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३, ऋक् ८

संहिता

वि॒श्पतिं॑ य॒ह्वमति॑थिं॒ नर॒ः सदा॑ य॒न्तारं॑ धी॒नामु॒शिजं॑ च वा॒घता॑म् ।
अ॒ध्व॒राणां॒ चेत॑नं जा॒तवे॑दसं॒ प्र शं॑सन्ति॒ नम॑सा जू॒तिभि॑र्वृ॒धे ॥

पदपाठः

वि॒श्पति॑म् । य॒ह्वम् । अति॑थिम् । नरः॑ । सदा॑ । य॒न्तार॑म् । धी॒नाम् । उ॒शिज॑म् । च॒ । वा॒घता॑म् ।
अ॒ध्व॒राणा॑म् । चेत॑नम् । जा॒तऽवे॑दसम् । प्र । शं॒स॒न्ति॒ । नम॑सा । जू॒तिऽभिः॑ । वृ॒धे ॥

सायणभाष्यम्

नरोनेतारः स्तोतारोवा विश्पतिं विशांमनुष्याणांपतिंविश्वस्यपतिमितिवायह्वंमहान्तं अतिथिंसर्वस्यातिथिभूतं धीनांबुद्धीनांकर्मणांवा यन्तारंनियन्तारं वाघतांचऋत्विजांच उशिजं कान्तंमनोज्ञं अध्वराणांयागानांचेतनं प्रज्ञापकं जूतिभिर्वेगैर्युक्तं जातवेदसमग्निं वृधेवृद्धयेसमृद्ध- ये नमसानमस्कारेणस्तुतिभिश्च सदासर्वकालं प्रशंसन्ति प्रशंसांकुर्वन्ति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१