मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३, ऋक् ९

संहिता

वि॒भावा॑ दे॒वः सु॒रण॒ः परि॑ क्षि॒तीर॒ग्निर्ब॑भूव॒ शव॑सा सु॒मद्र॑थः ।
तस्य॑ व्र॒तानि॑ भूरिपो॒षिणो॑ व॒यमुप॑ भूषेम॒ दम॒ आ सु॑वृ॒क्तिभि॑ः ॥

पदपाठः

वि॒भाऽवा॑ । दे॒वः । सु॒ऽरणः । परि॑ । क्षि॒तीः । अ॒ग्निः । ब॒भू॒व॒ । शव॑सा । सु॒मत्ऽर॑थः ।
तस्य॑ । व्र॒तानि॑ । भू॒रि॒ऽपो॒षिणः॑ । व॒यम् । उप॑ । भू॒षे॒म॒ । दमे॑ । आ । सु॒वृ॒क्तिऽभिः॑ ॥

सायणभाष्यम्

विभावादीप्तिमान् देवः स्तूयमानः सुरणः अत्रवर्णलोपश्छान्दसः शोभनंरमयतीति सुरमणः सुदद्रथः शोभनरथः अग्निः शवसाबलेन क्षितीः सर्वाः प्रजाः परिबभूव परितोगृह्णाति अत्रभव तेरुपसर्गवशात्परिग्रहार्थत्वं भूरिपोषिणः बहूनांपोषयितुः पालयितुः दमे यज्ञगृहे दमइतिगृह नामसुपाठात् निवसतः तस्याग्नेर्व्रतानिकर्माणि वयंसुवृक्तिभिः स्तोत्रैः आसर्वतःउपभूषेम उपभू षयामः प्रकाशयामः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१