मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३, ऋक् १०

संहिता

वैश्वा॑नर॒ तव॒ धामा॒न्या च॑के॒ येभि॑ः स्व॒र्विदभ॑वो विचक्षण ।
जा॒त आपृ॑णो॒ भुव॑नानि॒ रोद॑सी॒ अग्ने॒ ता विश्वा॑ परि॒भूर॑सि॒ त्मना॑ ॥

पदपाठः

वैश्वा॑नर । तव॑ । धामा॑नि । आ । च॒क्रे॒ । येभिः॑ । स्वः॒ऽवित् । अभ॑वः । वि॒ऽच॒क्ष॒ण॒ ।
जा॒तः । आ । अ॒पृ॒णः॒ । भुव॑नानि । रोद॑सी॒ इति॑ । अग्ने॑ । ता । विश्वा॑ । प॒रि॒ऽभूः । अ॒सि॒ । त्मना॑ ॥

सायणभाष्यम्

हेवैश्वानर तवधामानित्वत्संबन्धीनितेजांसि आचके अभिष्टौमि हेविचक्षण प्राज्ञ त्वं येभिः यैस्तेजोभिः स्वर्वित् सर्ववित् सर्वज्ञः अभवः भवसि जातः जातमात्रस्त्वं भुवनानि भूतजाता नि रोदसीद्यावापृथिव्यौ आपृणः आपूरयः हेअग्ने विश्वाविश्वानिसर्वाणि ता तानि भुवनानिभूत जातानि त्मनाआत्मना परिभूरसि परिग्रहीतासि ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१