मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३, ऋक् ११

संहिता

वै॒श्वा॒न॒रस्य॑ दं॒सना॑भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्यया॑ क॒विः ।
उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा ॥

पदपाठः

वै॒श्वा॒न॒रस्य॑ । दं॒सना॑भ्यः । बृ॒हत् । अरि॑णात् । एकः॑ । सु॒ऽअ॒प॒स्यया॑ । क॒विः ।
उ॒भा । पि॒तरा॑ । म॒हय॑न् । अ॒जा॒य॒त॒ । अ॒ग्निः । द्यावा॑पृथि॒वी इति॑ । भूरि॑ऽरेतसा ॥

सायणभाष्यम्

वैश्वानरस्याग्नेः दंसनाभ्यः तोषकारीभ्यः क्रियाभ्यः बृहन्महद्धनंभवतीतियत् तदवितथं यतःकारणात् एकोमुख्यः कविरग्निः स्वपस्यया शोभनयज्ञादिकर्मेच्छयायजमानादिभ्योधनमरि णात् ददातिसोयमग्निः भूरिरेतसा बहुरेतस्कौ उभाउभौ पितरापितरौ मातापितरौद्यावापृथि वी द्यावापृथिव्यौ महयन् पूजयन् अजायत ॥ ११ ॥

समित्समिदित्येकादशर्चंचतुर्थंसूक्तं वैश्वामित्रं त्रैष्टुभं अत्रानुक्रमणिका समित्समिदाप्रियइति इध्मादिस्वाहाकृत्यन्ताःपूर्वोक्ताः प्रत्यृचंदेवताः पशौवैश्वामित्राणांआप्रीसूक्तं दर्शपूर्णमासयोः पत्नी संयाजेषुत्व्ष्टुर्याज्या तन्नइत्येषा सूत्रितंच—इहत्वष्टारमग्रियंतन्नस्तुरीपमधपोषयित्न्विति । त्वाष्ट्रे पशौ पुरोडाशस्यानुवाक्या सूत्रितंच—तन्नस्तुरीपमधपोषयित्नुदेवस्त्वष्टासविताविश्वरूपइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१