मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४, ऋक् १

संहिता

स॒मित्स॑मित्सु॒मना॑ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा॑सि॒ वस्व॑ः ।
आ दे॑व दे॒वान्य॒जथा॑य वक्षि॒ सखा॒ सखी॑न्त्सु॒मना॑ यक्ष्यग्ने ॥

पदपाठः

स॒मित्ऽस॑मित् । सु॒ऽमनाः॑ । बो॒धि॒ । अ॒स्मे इति॑ । शु॒चाऽशु॑चा । सु॒ऽम॒तिम् । रा॒सि॒ । वस्वः॑ ।
आ । दे॒व॒ । दे॒वान् । य॒जथा॑य । व॒क्षि॒ । सखा॑ । सखी॑न् । सु॒ऽमनाः॑ । य॒क्षि॒ । अ॒ग्ने॒ ॥

सायणभाष्यम्

समित्समित् अत्यर्थंसमिद्धस्त्वं सुमनाः बोधिबुध्यस्व शुचाशुचा अत्यर्थं प्रसप्रकेण ज्योति षायुक्तः त्वं वस्वोवसुनोधनस्यतद्विषयां सुमतिं शॊभनांबुद्धिं अस्मेअस्मभ्यं रासिदेहि हे देव द्योतमान देवान् यजनीयान् यजथाययज्ञाय तदर्थं आवक्षिआवहसि हेअग्नेसखादेवानां सखात्वं सुमनाःसन् सखीन् देवान् यक्षियजस्व ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२