मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४, ऋक् २

संहिता

यं दे॒वास॒स्त्रिरह॑न्ना॒यज॑न्ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
सेमं य॒ज्ञं मधु॑मन्तं कृधी न॒स्तनू॑नपाद्घृ॒तयो॑निं वि॒धन्त॑म् ॥

पदपाठः

यम् । दे॒वासः॑ । त्रिः । अह॑न् । आ॒ऽयज॑न्ते । दि॒वेऽदि॑वे । वरु॑णः । मि॒त्रः । अ॒ग्निः ।
सः । इ॒मम् । य॒ज्ञम् । मधु॑ऽमन्तम् । कृ॒धि॒ । नः॒ । तनू॑ऽनपात् । घृ॒तऽयो॑निम् । वि॒धन्त॑म् ॥

सायणभाष्यम्

वरुणःमित्रःअग्निः एतेत्रयोदेवासोदेवाः यमग्निंदिवेदिवेप्रतिदिवसं अहन् अहनित्रिः प्रातर्मध्या ह्नसायंतनेषुसवनेषु त्रिवारं आयजन्ते हेतनूनपात् तनूनांशरीराणां नपातयितः सत्वं घृतयोनिं घृस्योदकस्यकारणं विधन्तंविधीयमानंक्रियमाणं नोस्मदीयमिमंयज्ञं मधुमन्तं मध्वित्युदकनाम वृष्ट्यादिफलयुक्तंक्रुधिकुरु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२