मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४, ऋक् ३

संहिता

प्र दीधि॑तिर्वि॒श्ववा॑रा जिगाति॒ होता॑रमि॒ळः प्र॑थ॒मं यज॑ध्यै ।
अच्छा॒ नमो॑भिर्वृष॒भं व॒न्दध्यै॒ स दे॒वान्य॑क्षदिषि॒तो यजी॑यान् ॥

पदपाठः

प्र । दीधि॑तिः । वि॒श्वऽवा॑रा । जि॒गा॒ति॒ । होता॑रम् । इ॒ळः । प्र॒थ॒मम् । यज॑ध्यै ।
अच्छ॑ । नमः॑ऽभिः । वृ॒ष॒भम् । व॒न्दध्यै॑ । सः । दे॒वान् । य॒क्ष॒त् । इ॒षि॒तः । यजी॑यान् ॥

सायणभाष्यम्

विश्ववाराविश्वैर्जनैर्वरणीया दीधितिः स्तुतिः दीप्तिर्वा होतारं देवानामाह्वातारमग्निंप्रजि गाति जिगातु प्रकर्षेणगच्छतु प्रथमंमुख्यंअच्छआभिमुख्येन वृषभंसंपदांवर्षितारंवन्दध्यैवन्दितुं योग्यमितिशेषः अग्निंनमोभिः नमस्कारैः सह इळः इषः हवीरूपाण्यन्नानियजध्यै यष्टुंप्रीणयितुं प्रजिगातु प्रकर्षेणगच्छन्तु इषितः अस्माभिःप्रेरितः यजीयान् यष्टृतमः सोग्निर्देवान् यक्षत् यजतु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२