मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४, ऋक् ४

संहिता

ऊ॒र्ध्वो वां॑ गा॒तुर॑ध्व॒रे अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां॑सि ।
दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता॑ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ॥

पदपाठः

ऊ॒र्ध्वः । वा॒म् । गा॒तुः । अ॒ध्व॒रे । अ॒का॒रि॒ । ऊ॒र्ध्वा । शो॒चींषि॑ । प्रऽस्थि॑ता । रजां॑सि ।
दि॒वः । वा॒ । नाभा॑ । नि । अ॒सा॒दि॒ । होता॑ । स्तृ॒णी॒महि॑ । दे॒वऽव्य॑चाः । वि । ब॒र्हिः ॥

सायणभाष्यम्

वांयुवयोः अग्निश्चबर्हिश्चउभौवामित्युच्येते समिदादिभिः सहितस्यैवाग्नेर्देवतात्वात् ऊर्ध्वः उन्नतः गातुर्यज्ञमार्गः अध्वरेयज्ञे अकारि आश्रयःक्रियते शोचींषिअर्चिष्मन्तिरजांसिहवींषिऊर्ध्वा ऊर्ध्वंग्रस्थिता प्रस्थितानिगतानिसन्तिहोताग्निर्दिवः दीप्यमानस्ययागगृहस्य नाभा नाभौ मध्य प्रदेशेन्यसादिनिषीदति देवव्यचाः देवैर्व्याप्तंबर्हिश्च चार्थेवाशब्दः विस्तृणीमहि विशेशेणस्तृणीमः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२